Shree Durga Kavacham श्रीदुर्गा देवी कवचम्
Shree Durga Kavacham
श्रीदुर्गा देवी कवचम्
श्रीगणेशाय नम:
श्रृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥१॥
अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् । स नाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥२॥
उमादेवि शिर: पातु ललाटे शूलधारिणी । चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी॥३॥
सुगन्धा नासिके पातु वदनं सर्वधारिणी । जिह्वां च चण्डिकादेवी ग्रीवां सौभद्रिका तथा ॥४॥
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी । हृदयं ललितादेवी उदरं सिंहवाहनी ॥५॥
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी । महाबला च जङ्घे द्वे पावौ भूतलवासिनी ॥६॥
एवं स्थिताsसि देवि त्वं त्रैलोक्ये रक्षणात्मिका । रक्ष मां सर्वगात्रेषु दुर्गा देवि नमोsस्तुते ॥७॥
॥ इति श्रीकुब्जिकातन्त्रे दुर्गाकवचम् सम्पूर्णम् ॥
_______________________________
If I am not Posting. I may be doing something at these places: Youtube Esnips
Durga - The Divine Mother Group

















