यतोऽनन्तशक्तेरनन्ताश्च जीवायतो निर्गुणादप्रमेया गुणास्ते।
यतो भाति सर्वं त्रिधा भेदभिन्नंसदा तं गणेशं नमामो भजामः॥
जय श्री भैरव जय महादेव जय बजरंग बली
या देवी सर्वभूतेषु माँ कालरात्रि रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत् ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
दुर्वृत्तवृत्तशमनं तव देवि शीलं
रूपं तथैतदविचिन्त्यमतुल्यमन्यैः ।
वीर्यं च हन्तृ हृतदेवपराक्रमाणां
वैरिष्वपि प्रकटितैव दया त्वयेत्थम्॥
केनोपमा भवतु तेऽस्य पराक्रमस्य
रूपं च शत्रुभयकार्यतिहारि कुत्र ।
चित्ते कृपा समरनिष्ठुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेऽपि॥
अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते। चतुरविचारधुरीणमहाशिव दूतकृत प्रथमाधिपते।। दुरितदुरीह दुराशयदुर्मति दानवदूत कृतान्तमते। जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते।
कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम्।
सदा बसन्तं हृदयारबिन्दे भबं भवानीसहितं नमामि।।
“मंगलम भगवान् विष्णु,
मंगलम गरुड़ध्वजः।
मंगलम पुन्डरी काक्षो,
मंगलायतनो हरि॥”
सर्व मंगल मांग्लयै शिवे सर्वार्थ साधिके |
शरण्ये त्रयम्बके गौरी नारायणी नमोस्तुते ||
त्वमेव माता च पिता त्वमेव
त्वमेव बंधू च सखा त्वमेव
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव
कायेन वाचा मनसेंद्रियैर्वा
बुध्यात्मना वा प्रकृतेः स्वभावात
करोमि यध्य्त सकलं परस्मै
नारायणायेति समर्पयामि ||
ॐअपराधसहस्राणिक्रियन्तेऽहर्निशंमया |
दासोऽयमितिमांमत्वाक्षमस्वपरमेश्वरि || १ ||
आवाहनंनजानामिनजानामिविसर्जनम् |
पूजांचैवनजानामिक्षम्यतांपरमेश्वरि || २ ||
मन्त्रहीनंक्रियाहीनंभक्तिहीनंसुरेश्वरि |
यत्पूजितंमयादेविपरिपूर्णंतदस्तुमें || ३ ||
अपराधशतंकृत्वाजगदम्बेतिचोच्चरेत् |
यांगतिंसमवाप्नोतिनतांब्रह्मादयःसुराः || ४ ||
सापराधोऽस्मिशरणंप्राप्तस्त्वांजगदम्बिके |
इदानीमनुकम्प्योऽहंयथेच्छसितथाकुरु || ५ ||
अज्ञानाद्विस्मृतेर्भ्रान्त्यायन्न्यूनमधिकंकृतम् |
तत्सर्वंक्षम्यतांदेविप्रसीदपरमेश्वरि || ६ ||
कामेश्वरिजगन्मातःसच्चिदानंदविग्रहे |
गृहाणार्चामिमांप्रीत्याप्रसीदपरमेश्वरि || ७ ||
गुह्यातिगुह्यगोप्त्रीत्वंगृहाणास्मत्कृतंजपम् |
सिद्धिर्भवतुमेंदेवित्वत्प्रसादात्सुरेश्वरि || ८ ||
अनेन पुजनेन श्री दुर्गार्पणमस्तु
जय मां कालरात्रि जय मां अम्बे जय मां महाकाली
नमः पार्वतीपतये हर हर महादेव हर
जय गजानन जय भैरव जय बजरंगबली